(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

शान्तिपर्व (Mahabharat) - 12. शान्तिपर्व(महाभारत)


॥ श्रीः ॥
12.190. अध्यायः 190
Mahabharata - Shanti Parva - Chapter Topics
भृगुणा भरद्वाजंप्रति वानप्रस्थयत्याश्रमयोर्लक्षणकथनम्॥ 1॥ तथा हिमवदुत्तरलोकस्य स्वर्गतुल्यत्वप्रतिपादनपूर्वकं सुकृंतिप्राप्यत्वकथनं च॥ 2॥


Mahabharata - Shanti Parva - Chapter Text

भृगुरुवाच। 12-190-0x(5955)(72523)
वानप्रस्थाः खल्वृषिधर्ममनुवर्तन्ते पुण्यानि तीर्थानि नदीप्रस्रवणान्युचरन्ति सुविभक्तेष्यरण्येषु मृगमहिषवराहशार्दूलसृमरगजाकीर्णेषु तपस्यन्तोऽनुसंचरन्ति त्यक्तग्राम्यवस्त्राभ्यवहारोपभोगा वन्यौषधिफलमूलपर्णपरिमितविचित्रनियताहाराः स्थानासनिनो भूमिपाषाणसिकताशर्करावालुकाभस्मशायिनः काशकुशचर्मवल्कलसंवृताङ्गाः केशश्मश्रुनखरोमधारिणो नियतकालोपस्पर्शना अस्कन्नकालबहिहोमानुष्ठायिनः समित्कुशकुसुमापहारार्चनसंमार्जनहोमान्तलब्धविश्रयाः शीतोष्ण [वर्ष]पवनविनिष्टप्तविभिन्नसर्वत्वचो विविधनियमयोगचर्यानुष्ठानहृत [परिशुष्क] मांसशोणितत्वगस्थिभूता धृतिपराः सत्वयोगाच्छरीराण्युद्वहन्ति॥ 12-190-1(72524)
भवति चात्र श्लोकः। 12-190-2x(5956)
यश्चैतां नियतश्चर्यां ब्रह्मर्षिविहितां चरेत्।
स दहेदग्निवद्दोषाञ्जयेल्लोकांश्च दुर्जयान्॥ 12-190-2(72525)
परिव्राजकानां पुनराचारः। तद्यथा विमुच्यधनकलत्रपरिबर्हणं सङ्गेष्वात्मनः स्नेहपाशानवधूय परिव्रजन्ति समलोष्टाश्मकाञ्चनास्त्रिवर्गप्रवृत्तेष्वारम्भेष्वसक्तबुद्धयोऽरिमित्रोदासीनानां तुल्यदर्शनाः स्थावरजङ्गमानां जरायुजाण्डजस्वेदजोद्भिज्जानां भूतानां वाङ्भनः कर्मभिरभिद्रोहिणोऽनिकेताः पर्वतपुलिनवृक्षमूलदेवतायतनान्यननुचरन्तो वासार्थमुपेयुर्नगरं ग्रामं वा नगरे पञ्चरात्रिका ग्रामे चैकरात्रिकाः प्रविश्च च प्राणधारणार्थं द्विजातीनां भवनान्यसंकीर्णकर्मणामुपतिष्ठेयुः पात्रपतिताऽयाचितभैक्ष्याः कामक्रोधदर्पलोभमोहकार्पण्यदम्भपरिवादाभिमानहिंसानिवृत्ता इति॥ 12-190-3(72526)
भवन्ति चात्र श्लोकाः। 12-190-4x(5957)
अभयं सर्वभूतेभ्यो दत्त्वा यश्चरते मुनिः।
न तस्य सर्वभूतेभ्यो भयमुत्पद्यते क्वचित्॥ 12-190-4(72527)
कृत्वाऽग्निहोत्रं स्वशरीरसंस्थं
शारीरमग्निं स्वमुखे जुहोति।
यो भैक्षचर्योपगतैर्हविर्भि
श्चिताग्निना प्राप्य स याति लोका॥ 12-190-5(72528)
मोक्षाश्रमं यः कुरुते यथोक्तं
शुचिः सुसंकल्पितबुद्धियुक्तः।
अनिन्धनं ज्योतिरिव प्रशान्तं
स ब्रह्मलोकं श्रयते द्विजातिः॥ 12-190-6(72529)
भरद्वाज उवाच। 12-190-7x(5958)
अस्माल्लोकात्परो लोकः श्रूयते नोपलभ्यते।
तमहं ज्ञातुमिच्छामि तद्भवान्वक्तुमर्हति॥ 12-190-7(72530)
भृगुरुवाच। 12-190-8x(5959)
उत्तरे हिमवत्पार्श्वे पुण्ये सर्वगुणान्विते।
पुण्यः क्षेम्यश्च काम्यश्च स परो लोक उच्यते॥ 12-190-8(72531)
तत्र ह्यपापकर्माणः शुचयोऽत्यन्तनिर्मलाः।
लोभमोहपरित्यक्ता मानवा निरुपद्रवाः॥ 12-190-9(72532)
स स्वर्गसदृशो लोकस्तत्र ह्युक्ताः शुभा गुणाः।
नात्र मृत्युः प्रभवति स्पृशन्ति व्याधयो न च॥ 12-190-10(72533)
न लोभः परदारेषु स्वदारनिरतो जनः।
न चान्योन्यवधस्तत्र द्रव्येषु च न विस्मयः॥ 12-190-11(72534)
परोक्षधर्मो नैवास्ति संदेहो नापि जायते।
कृतस्य तु फलं व्यक्तं प्रत्यक्षमुपलभ्यते॥ 12-190-12(72535)
यानासनाशनोपेताः प्रासादभवनाश्रयाः।
सर्वकामैर्वृताः केचिद्धेमाभरणभूषिताः॥ 12-190-13(72536)
प्राणधारणमात्रं तु केषांचिदुपलभ्यते।
श्रमेण महता केचित्कुर्वन्ति प्राणधारणम्॥ 12-190-14(72537)
इह धर्मपराः केचित्केचिन्नैकृतिका नराः।
सुखिताः दुःखिताः केचिन्निर्धना धनिनोऽपरे॥ 12-190-15(72538)
इह श्रमो भयं मोहः क्षुधा निद्रा च जायते।
लोभश्चार्थकृतो नॄणां येन मुह्यन्त्यपण्डिताः॥ 12-190-16(72539)
इह अर्ता बहुविधा धर्माधर्मस्य कर्मणः।
यस्तद्वेदोभयं प्राज्ञः पाप्मना न स लिप्यते॥ 12-190-17(72540)
सोपधं कृतिः स्तेयं परिवादो ह्यसूयिता।
परोपघातो हिंसा च पैशुन्यमनृतं तथा॥ 12-190-18(72541)
एतानि सेवते यस्तु तपस्तस्य मितायते।
यस्त्वेतान्नाचरेद्विद्वांस्तपस्तस्य प्रवर्धते॥ 12-190-19(72542)
इह चिन्ता बहुविधा धर्माधर्मस्य कर्मणः।
कर्मभूमिरियं लोके इह कृत्वा शुभाशुभम्।
शुभैः शुभमवाप्नोति कर्ताऽशुभमथान्यथा॥ 12-190-20(72543)
इह प्रजापतिः पूर्वं देवाः सर्षिगणास्तथा।
इष्टेन तपसा पूता ब्रह्मलोकमुपाश्रिताः॥ 12-190-21(72544)
उत्तरः पृथिवीभागः सर्वपुण्यतमः शुभः।
इहत्यास्तत्र जायन्ते ये वै पुण्यकृतो जनाः॥ 12-190-22(72545)
असत्कर्माणि कुर्वाणास्तिर्यग्योनिषु चापरे।
क्षीणायुषस्तथा चान्ये नश्यन्ति पृथिवीतले॥ 12-190-23(72546)
अन्योन्यभक्षणासक्ता लोभमोहसमन्विताः।
इहैव परिवर्न्तते न ते यान्त्युत्तरां दिशम्॥ 12-190-24(72547)
ये गुरून्पर्युपासन्ते नियता ब्रह्मचारिणः।
पन्थानं सर्वलोकानां ते जानन्ति मनीषिणः॥ 12-190-25(72548)
इत्युक्तोऽयं मया धर्मः संक्षेपाद्ब्रह्मनिर्मितः।
धर्माधर्मौ हि लोकस्य यो वै वेत्ति स बुद्धिमान्॥ 12-190-26(72549)
भीष्म उवाच। 12-190-27x(5960)
इत्युक्तो भृगुणा राजन्भरद्वाजः प्रतापवान्।
भृगुं परमधर्मात्मा विस्मितः प्रत्यपूजयत्॥ 12-190-27(72550)
एष ते प्रभवो राजञ्जगतः संप्रकीर्तितः।
निखिलेन महाप्राज्ञ किं भूयः श्रोतुमिच्छसि॥ ॥ 12-190-28(72551)

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि नवत्यधिकशततमोऽध्यायः॥ 190॥

Mahabharata - Shanti Parva - Chapter Footnotes

12-190-1 सुविविक्तेष्वरण्येषु इति झ. ड. थ. पाठः॥ 12-190-3 परिबर्हणं शठ्यादिभोगसामग्री। परिव्राजकानां पुनराचारं प्रवदामः इति ड. थ.पाठः। सङ्गेष्वात्मानमवधूय स्नेहपाशान्परित्यजन्ति। इति ट. पाठः। असङ्कीर्णस्थानान्युपतिष्ठेयुरिति ड.थ. पाठः॥ 12-190-5 विप्रस्तु भैक्ष्योष्णातैर्हविर्भिश्चिताग्निनां स व्रजते हि लोकमिति झ. पाठः॥ 12-190-6 सुसङ्कल्पितमुक्तबुद्धिः इति झ. पाठः॥ 12-190-10 स स्वर्गसदृशो देश इति झ. पाठः। काले मृत्युः इति ध. झ.पाठः॥ 12-190-12 परोक्षधर्मः परोक्षफलो धर्मः। परो ह्यधर्मो नेवास्तीति झ. पाठः। कृतस्य तु फलं तत्र इति ध. झ. पाठः॥ 12-190-16 क्षुधा तीव्रा च इति झ. पाठः॥ 12-190-17 वार्ताः कुशलाः॥ 12-190-18 सोपधं सदम्भम्॥ 12-190-19 तपो योगजधर्मः। तपस्तस्य प्रहीयते इति झ. पाठः॥ 12-190-20 चिन्ता विचारः॥ 12-190-21 ब्रह्मलोकं हिमवत्पार्श्वम्॥ 12-190-23 यदि सत्कारमृच्छन्ति इति ध. झ. पाठः॥ 12-190-24 उत्तरां दिशं हिमवत्पार्श्वम्॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.